|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.108. अध्यायः 108
Mahabharata - Vana Parva - Chapter Topics
दिलीपसुतेन भगीरथेन धरणीतलावतरणाय गङ्गांप्रति तपश्चरणम् ॥ 1 ॥ तथा धरणीतलमवतरन्त्या गङ्गाया वेगाधारणाय तदाज्ञया तपसा शंकरतोषणम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
लोमश उवाच। 3-108-0x(2057)(20265)
स तु राजा महेष्वासश्चक्रवर्ती महारथः।
बभूव सर्वलोकस् मनोनयननन्दनः ॥ 3-108-1(20266)
स शुश्राव महाबाहुः कपिलेन महात्मना।
पितॄणआं निधनं घोरमप्राप्तिं त्रिदिवस्य च ॥ 3-108-2(20267)
स राज्यं सचिवे न्यस्य हृदयेन विदूयता।
जगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वरः ॥ 3-108-3(20268)
आरिराधयिषुर्गङ्गां तपसा दग्धकिल्विषः।
सोऽपश्यत नर्रेष्ठ हिमवन्तं नगोत्तमम् ॥ 3-108-4(20269)
शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलंकृतम्।
पवनालम्बिभिर्मेघैः परिपिक्तं समन्ततः ॥ 3-108-5(20270)
नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम्।
गुहाकन्दरसंलीनसिंहव्याघ्रनिषेवितम् ॥ 3-108-6(20271)
शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः।
भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः ॥ 3-108-7(20272)
मयूरैः शतपत्रैश्च जीवंजीवककोकिलैः।
चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि ॥ 3-108-8(20273)
जलस्थानेषु रम्येषु पद्मिनीभिश्च संकुलम्।
सारसानां च मधुरैर्व्याहृतैः समलंकृतम् ॥ 3-108-9(20274)
किन्नरैरप्सरोभिश्च निषेवितशिलातलम्।
दिग्वारणविषाणाग्रैः समन्ताद्धृष्टपादपम् ॥ 3-108-10(20275)
विद्याधरानुचरितं नानारत्नसमाकुलम्।
विषोल्वणैर्भुजङ्गैश्च दीप्ताजिह्वैर्निषेवितम् ॥ 3-108-11(20276)
क्वचित्कनकसंकाशं क्वचिद्रजतसंनिभम्।
क्वचिदञ्जनपुञ्जाभं हिमवनतमुपागमत् ॥ 3-108-12(20277)
स तु तत्रनरश्रेष्ठस्तपो घोरं समाश्रितः।
फलमूलाम्बुसंभक्षः सहस्रपरिवत्सरान् ॥ 3-108-13(20278)
संवत्सरसहस्रे तु गते दिव्ये महानदी।
दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम् ॥ 3-108-14(20279)
गङ्गोवाच। 3-108-15x(2058)
किमिच्छसि महाराज म्तः किंच ददानि ते।
तद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव ॥ 3-108-15(20280)
एवमुक्तः प्रत्युवाच राजा हैमवतीं नदीम्।
`तदा भगीरथो राजन्प्रणिपत्य कृताञ्जलिः'।
पितामहा मे वरदे कपिलेन महानदि ॥ 3-108-16(20281)
अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम्।
षष्टिस्तानि सहस्राणि सागराणां महात्मनाम् ॥ 3-108-17(20282)
कपिलं देवमासाद्य क्षणेन निधनं गताः।
तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते ॥ 3-108-18(20283)
यावत्तानि शरीराणि त्वं जलैर्नाभिषिञ्चसि।
तावत्तेषां गतिर्नास्ति सागराणां महानदि ॥ 3-108-19(20284)
स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान्।
तेषामर्थेऽभियाचामि त्वामहं वै महानदि ॥ 3-108-20(20285)
लोमश उवाच। 3-108-21x(2059)
एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता।
भगीरथमिदं वाक्यं सुप्रीता समभाषत ॥ 3-108-21(20286)
करिष्यामि माहाराज वचस्ते नात्र संशयः।
वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम् ॥ 3-108-22(20287)
न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप।
अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात् ॥ 3-108-23(20288)
तं तोषय रमहाबाहो तपसा वरदं हरम्।
स तु मां प्रच्युतां देवः शिरसा धारयिष्यति ॥ 3-108-24(20289)
स करिष्यति ते रकामं पितॄणां हितकाम्यया।
`तपसाऽऽराधितः शंभुर्भगर्वाँल्लोकभावनः' ॥ 3-108-25(20290)
एतच्छ्रुत्वा ततो राजन्महाराजो भगीरथः।
कैलासं पर्वतं गत्वा तोषयामास शंकरम् ॥ 3-108-26(20291)
ततस्तेन समागम्य कालयोगेन केनचित्।
`गह्गावतरणं राजन्नयाचत महीपतिः ॥ 3-108-27(20292)
अगृह्णाच्च वरं तस्माद्गङ्गाया धारणे नृप।
स्वर्गे वासं समुद्दिश् पितॄणां स नरोत्तमः ॥ 3-108-28(20293)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि अष्टाधिकशततमोऽध्यायः ॥ 108 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-108-22 गगनाच्च्युतं यथा भवति तथा पतन्त्याः। गगनाद्भुवमिति झ. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|